महाभारतसूक्तयः (अल्पाहारः)

विकिसूक्तिः तः

अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम्॥ शान्ति.१७/५॥

भोजनं ह्यन्तराशुद्धं चातुर्मास्ये विधीयते॥ शान्ति.३५/२९॥

मासार्धमासोपवासाद् यत् तपो मन्यते जनः।
आत्मतन्त्रोपधाती यो न तपस्वी न धर्मवित्॥ अनु.९३/४॥

अन्तरासायमाशं च प्रातराशं च यो नरः।
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः॥ अनु.९३/१०॥

भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा।
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर।। अनु.९३/१३॥

देवेभ्यश्च पितृभ्यश्च संश्रितेभ्यस्तथैव च।
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम्॥ अनु.९३/१५॥

शरीरमलशान्त्यर्थमिन्द्रियोच्छोषणाय च।
एकभुक्तोपवासैस्तु धारयन्ते व्रतं नराः॥
लभन्ते विपुलं धर्मं तथाऽऽहारपरिक्षयात्॥ अनु.१४५ दा.पा.॥

सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्।
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः॥ अनु.१६२/४०॥