महाभारतसूक्तयः (अवतारः)

विकिसूक्तिः तः

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्। भीष्म.२८/७॥ गीता४/७॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥ भीष्म.२८/८॥ गीता४/८॥