महाभारतसूक्तयः (आयुः)

विकिसूक्तिः तः

अतिमानोऽतिवादश्च तथात्यागो नराधिप।
क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट्॥ उद्योग.३७/१०॥

एत एवासयस्तीक्ष्णा कृन्तन्त्यायूंषि देहिनाम्॥ उद्योग.३७/११॥

मार्दवं सर्वभूतानामनसूया क्षमा धृतिः।
आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना॥ उद्योग.३९/५२॥

दीर्घमायुरथेच्छन् हि त्रिरात्रं चोष्णपो भवेत्॥ शान्ति.३६/९॥

स्रवन्ति न निवर्तन्ते स्त्रोतांसि सरितामिव।
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः॥ शान्ति.३३१/५॥

पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः।
अप्रियः सर्वभूतानां हीनायुरुपजायते॥ अनु.१४४/५५॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(आयुः)&oldid=15694" इत्यस्माद् प्रतिप्राप्तम्