महाभारतसूक्तयः (आर्यावर्तम्)

विकिसूक्तिः तः

आसमुद्राच्च यत् पूर्वदासमुद्राच्च पश्चिमात्।
हिमाद्रिविन्ध्पयोर्मध्ये आर्यावर्तं प्रचक्षते॥ आश्व.९२ दा.पा.अ.XV॥

सरस्वती दृषद्वत्योर्देवनद्योर्यदन्तरम्।
तद्देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते॥ आश्व.९२ दा.पा.अ.XV॥

कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनयः।
एते ब्रह्मर्षिदेशास्तु ब्रह्मावर्तादनन्तराः॥ आश्व.९२ दा.पा.अ.XV॥

मध्यदेश -
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विशसनादपि।
प्रत्यगेव प्रयागात् तु मध्यदेशः प्रकीर्तितः॥ आश्व.९२ दा.पा.अ.XV॥

कृष्णसारस्तु चरति मृगो यत्र स्वभावतः।
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्ततः परम्॥ आश्व.९२ दा.पा.अ.XV॥