महाभारतसूक्तयः (आशा)

विकिसूक्तिः तः

सर्वस्याशा सुमहती पुरुषस्योपजायते।
तस्यां विहन्यमानायां दुःखो मृत्युर्न संशयः॥ शान्ति.१२५/४॥

आशां महत्तरां मन्ये पर्वतादपि सदुमात्।
आकाशादपि वा राजन्नप्रमेयैव वा पुनः॥ शान्ति.१२५/६॥

हिमवान् वा महाशैलः समुद्रो वा महोदधिः।
महत्त्वान्नावपद्येतां नभसो वान्तरं तथा॥ शान्ति.१२६/१३॥

आशायास्तपसिश्रेष्ठास्तथा नान्तमहं गतः।
आशा हि पुरुषं बालमुत्थापयति तस्थुषी॥ शान्ति.१२८/६॥

कृशत्वेन समं राजन्नाशाया विद्यते नृप॥ शान्ति.१२८/९॥

कृशाकृशे मया ब्रह्मन् गृहीते वचनात् तव।
दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज॥ शान्ति.१२८/१०॥

दुर्लभोऽप्यथवा नास्ति योऽर्थी धृतिमवाप्नुयात्।
स दुर्लभतरस्तात योऽर्थिनं नावमन्यते॥ शान्ति.१२८/१३॥

सत्कृत्य नोपकुरुते परं शक्त्या यथार्हतः।
या सक्ता सर्वभूतेषु साऽऽशा कृशतरी मया॥ शान्ति.१२८/१४॥

कृतघ्नेषु च या सक्ता नृशंसेष्वलसेषु च।
अपकारिषु चासक्ता साऽऽशा कृशतरी मया॥ शान्ति.१२८/१५॥

एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा।
प्रवृत्तिं यो न जानाति साऽऽशा कृशतरी मया॥ शान्ति.१२८/१६॥

प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता।
तथा नरेन्द्र धनिनां साऽऽशा कृशतरी मया॥ शान्ति.१२८/१७॥

प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते।
श्रुत्वा कथास्तथायुक्ताः साऽऽशा कृशतरी मया॥ शान्ति.१२८/१८॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(आशा)&oldid=15696" इत्यस्माद् प्रतिप्राप्तम्