महाभारतसूक्तयः (ऐक्यम्)

विकिसूक्तिः तः

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ॥ उद्योग.३६/६०॥

महानप्येको वृक्षो बलवान् सुप्रतिष्ठितः।
प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात्॥ उद्योग.३६/६२॥

अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः।
ते हि शीघ्रतमान् वातान् सहन्तेऽन्योन्य संश्रयात्॥ उद्योग.३६/६३॥

एवं मनुष्यमप्येकं गुणैरपि समन्वितम्।
शक्यं द्विषन्तो मन्यन्ते वायुर्दुममिवैकजम्॥ उद्योग.३६/६४॥