महाभारतसूक्तयः (कर्णः)

विकिसूक्तिः तः

ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः।
रिपुष्वपि दयावांश्च तस्मात् कर्णो वृषः स्मृतः॥ द्रोण.१८०/२४॥

युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः॥ द्रोण.१८०/२५॥

वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि॥ कर्ण.८/२३॥

वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः॥ कर्ण.८/२५॥

यो बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम्॥ कर्ण.९/१७॥

व्यूढोरस्कं कमलनयनं तप्तहेमावभासं
कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम्।
पांशुग्रस्तं मलिनमस्कृत् पुत्रमन्वीक्षमाणो-
मन्दं मन्दं व्रजति सविता मन्दिरं मन्दरश्मिः॥कर्ण.९१/अन्तिम श्लोक॥

जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी॥ भीष्म.१२२/१२॥

नीचाश्रयान्मत्सरेण द्वेषिणी गुणिनामपि।
तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि॥ भीष्म.१२२/१३॥

जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि।
ब्रह्मण्यतां च शौर्ये च दाने च परमां स्थितिम्॥ भीष्म.१२२/१४॥

इष्वस्त्रे चास्त्रसन्धाने लाघवेऽस्त्रबले तथा।
सदृशः फाल्गुनेनासि कृष्णेन च महात्मना॥ भीष्म.१२२/१६॥