महाभारतसूक्तयः (गुप्तमन्त्रणम्)

विकिसूक्तिः तः

मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ॥ वन.१५०/४३॥

स्त्रिया मूढेन बालेन लुब्धेन लघुनाति वा।
न मन्त्रयीत गुह्यानि येषु चोन्मादलक्षणम्॥ वन.१५०/४४॥

मन्त्रयेत् सह विद्वद्भिः शक्तैः कर्माणि कारयेत्।
स्निग्धैश्च नीतिविन्यासान् मूर्खान् सर्वत्र वर्जयेत्॥ वन.१५०/४५॥

सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः॥ उद्योग.३३/४५॥

अल्पप्रज्ञैः सहमन्त्रं न कुर्यान्न दीर्घसूत्रैः रभसैश्चारणैश्च॥उद्योग.३३/६९॥

नासुहृत् परमं मन्त्रं भारतार्हति वेदितुम्।
अपण्डितो वापि सुहृत् पण्डितो वाप्यनात्मवान्॥ उद्योग.३८/१९॥

गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम्॥ उद्योग.३८/२१॥

धर्मो धारयति प्रजाः॥ उद्योग.९०/६७॥

पौरजानपदानां च शौचाशौचे युधिष्ठर॥ आश्रमवास.५/२६॥
यथा स्याद् विदितं राजंस्तथा कार्यं कुरुद्वह।