अण्डजानि च जारुजानि...

विकिसूक्तिः तः

अण्डजानि च जारुजानि च स्वेदजानि च उद्भिज्जानि च …….. तत् सर्वं प्रज्ञानेत्रम् । - ऐतरेयोपनिषत् ३-१-३

अण्डजानि, जारुजानि, स्वेदजानि, उद्भिज्जानि च भूतानि । एतत् सर्वं प्रज्ञानेत्रम् ॥

परमात्मन एव सर्वे प्राणिनः जायन्ते । ते च प्राणिनः स्थूलतया चतुर्विधाः विभक्ता भवन्ति ॥ ते च –
अण्डजाः प्राणिनः = अण्डात् जाताः अण्डजाः । अण्डं भित्वा जायमानाः प्राणिनः । पक्षिणः सर्पाः
पल्ल्यादयः अण्डजाः ॥
जारुजाः प्राणिनः = जारुः इति जरायुः गर्भकोशः । मातृगर्भं प्रविश्य, तत्र उषित्वा योनिद्वारा जायमानाः-
मनुष्याः, गजाः, उष्ट्राः, अश्वाः, गवादयः, प्राणिनः जारुजाः ॥
स्वेदजाः प्राणिनः = मानवानां स्वेदात् उत्पद्यमानाः लूनाकीटादयः प्राणिनः स्वेदजाः ॥
उद्भिज्जाः प्राणिनः = बीजानि उद्भिद्य जायमानाः वृक्षादयः । एवम् इमे चतुर्विधाः प्राणिनः एकस्मादेव
परमात्मनो जायन्ते ॥

"https://sa.wikiquote.org/w/index.php?title=अण्डजानि_च_जारुजानि...&oldid=16263" इत्यस्माद् प्रतिप्राप्तम्