महाभारतसूक्तयः (जयः)

विकिसूक्तिः तः

जयो दैवे प्रतिष्ठितः॥ द्रोण.१४५/३०, १५८/७०॥

जयं जानीत धर्मस्य मूलं सर्वसुखस्य च।
या भीरूणां परा ग्लानिः शूरास्तामधिगच्छति॥ शान्ति.१००/४०॥

उदीर्णमनसो योधा वाहनानि च भारत।
यस्यां भवन्ति सेनायां ध्रुवं तस्यां परो जयः॥ शान्ति.१०२/५॥

जघन्य एव विजयो यद् युध्दं नाम भारत।
यादृच्छिको युधि जयो दैवो वेति विचारणम्॥ शान्ति.१०२/१७॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(जयः)&oldid=15614" इत्यस्माद् प्रतिप्राप्तम्