महाभारतसूक्तयः (जलम्)

विकिसूक्तिः तः

पानीयं परमं लोके जीवानां जीवनं स्मृतम्।
पानीयस्य प्रदानेन तृप्तिर्भवति पाण्डव।
पानीयस्य गुणा दिव्याः परलोके गुणावहाः॥ आश्व.९२ दा.पा.अ.VI॥

अग्नेर्मूर्तिः क्षितेर्योनिरमृतस्य च सम्भवः।
अतोऽम्भः सर्वभूतानां मूलमित्युच्यते बुधैः॥ आश्व.९२ दा.पा.अ.VI॥

अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च।
तस्मात् सर्वेषु दानेषु तोयदानं विशिष्यते॥ आश्व.९२ दा.पा.अ.VI॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(जलम्)&oldid=15506" इत्यस्माद् प्रतिप्राप्तम्