महाभारतसूक्तयः (द्रौपदी)

विकिसूक्तिः तः

अभुक्तं भुक्तवद् वापि सर्वमाकुब्जवामनम्।
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद् विशाम्पते॥ सभा.५२/४८॥

नैव ह्रस्वा न महती न कृष्णा नातिरोहिणी।
नील कुञ्चितकेशी च तया दीव्याम्यहं त्वया॥ सभा.६५/३३॥

शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया।
शारदोत्पलसेविन्या रूपेण श्रीसमानया॥ सभा.६५/३४॥

तथैव स्यादानृशंस्यात् तथा स्याद् रूपसम्पदा।
तथा स्याच्छीलसम्पत्त्या यामिच्छेत् पुरुषः स्त्रियम्॥ सभा.६५/३५॥

सर्वै गुणैर्हि सम्पन्नामनुकूलां प्रियम्वदाम्।
यादृशीं धर्मकामार्थ सिद्धिमिच्छेन्नरः स्त्रियम्॥ सभा.६५/३६॥

आभाति पद्मवद् वक्त्रं सस्वेदं मल्लिकेव च।
वेदिमध्या दीर्घकेशी ताम्रास्या नातिलोमशा॥ सभा.६५/३८॥

यथा च वेदान् सावित्री याज्ञसेनी तथा पतीन्।
न जहौ धर्मतः पार्थान् मेरुमर्कप्रभा यथा॥ वन.८१/५॥

पुत्रलोकात् पतिलोकं वृण्वाना सत्यवादिनी।
प्रियान् पुत्रान् परित्यज्य पाण्डवाननुरुध्यते॥ उद्योग.९०/४४॥

स्त्रीधर्मिणी वरारोह क्षत्रधर्मरता सदा।
नाभ्यगच्छत् तदा नाथं कृष्णा नाथवती सता। उद्योग.९०/८७॥