मृत्युप्रोक्तां नचिकेतोऽथ...

विकिसूक्तिः तः

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूत् विमृत्युः ॥ - काठकोपनिषत् २-३-१८

मृत्युदेवेन समुपदिष्टां ब्रह्मविद्यां योगविधानं च सम्यक् अवगम्य नचिकेताः आत्मज्ञानं प्राप्य,
तेन पापरहितः सन् मुक्तोऽभवत् अमृतात्मा च अभवत् ॥

वाजश्रवसः एकमात्रसुपुत्रः नचिकेताः पितृनिर्देशेन यमलोकं गतः । गमनसमये शोकमोहाविष्टः
नचिकेताः, तत्र गत्वा, मृत्यूपदेशं श्रद्धया श्रुत्वा शोकातीतोऽभवत् । ब्रह्मविद्याचार्यः ब्रह्मनिष्ठश्च
मृत्युदेवः अन्वर्थसद्गुरुः आसीत्, तथा योग्यः उत्तमश्च शिष्यः नचिकेताः अन्वर्थः जिज्ञासुः
मुमुक्षुश्च आसीत् । अनयोः प्रश्नप्रति वचनफलत्वेन ब्रह्मज्ञानोदयः अभवत् ॥

मृत्युदेवात् ज्ञानोपदेशम् एकाग्रतया श्रुत्वा, मनननिदिध्यासनं च कृत्वा नचिकेताः आत्मज्ञानं
प्राप्तवान् । आत्मज्ञानेन शोकमोह सागरं तीर्त्वा नचिकेताः कृतकृत्यः जीवन्मुक्तश्च अभवत् ।
एवमेव सर्वेऽपि मानवः आत्मज्ञानेन मुक्तो भवति ॥