सामग्री पर जाएँ

मौक्तिकानि (अकारः)

विकिसूक्तिः तः

अतिचिन्तनम्

[सम्पाद्यताम्]
उप्पण्णमत्थे कज्जे अइचिन्तन्तो गुणागुणे तम्मि
चिरआलमन्दपेच्छित्तणेण पुरिसो हणइ कज्जम् ॥ १ ॥
उत्पन्नार्थेऽतिचिन्तयन् गुणागुणौ तस्मिन्
चिरकालमन्दप्रेक्षित्वेन पुरुषो हन्ति कार्यम् ॥ गाथासप्तसती - शतक-गाथा ३.२४

अद्रष्टव्याः

[सम्पाद्यताम्]
इन्दे प्पवाहिअन्ते गोप्पशवे शंकमं च तालाणम्
शुपुलिशपाणविपत्ति चत्ताली इमे ण दट्टव्वा ॥ २ ॥
(इन्द्रः प्रवाह्यमाणो गोप्रसव: संक्रमप्टा ताराणाम्
सुपुरुषप्राणविपत्तिप्टात्वार इमे न द्रष्टव्याः ॥) मृच्छकटिकम् २०.७
तुष्टे सति न लाभाय रुष्टे नाशाय नैव च
प्रज्वालितानि शष्पाणि नाङ्गाराय न भस्मने ॥३॥ समयोचितपध्यमालिका ४६.३३.

अनर्थचतुष्टयम्

[सम्पाद्यताम्]
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता
एकैकमप्यनार्थाय किमु यत्र चतुष्टयम् ॥४॥ हितोपदेशम्. पृ. २२
क्षते प्रहारा निपतन्त्यभिक्ष्णं धनक्षये वर्धते जाठराग्निः
आपत्सु वैराणि समुद्भवन्ति छिद्रेष्वनर्था बहुलीभवन्ति ॥५॥ पञ्चतंत्रम् २.१~२
अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥६॥ सुभषितरत्नभाण्डागारम् १६९.७२३
प्रेरयति परमनार्यः शक्तिविहीनोऽपि जगदभिद्रोहे
तेजयति शस्त्रधारां स्वयमसमर्था शिला छेत्तुम् ॥७॥ सुभषितरत्नभाण्डागारम् ५७.१३१

अनित्यता

[सम्पाद्यताम्]
क्रोडीकरोति प्रथमं यदा जातमनित्यता
धात्रीव जननी पश्चात्तदा शोकस्य कः क्रमः ॥८॥ नागानन्दम्.४.८
दुःखं त्यक्तुं बद्धमूलोऽनुरागः
स्मृत्वा स्मृत्वा याति दुःखं नवत्वम्
यात्रा त्वेषा यद् विमुच्येह बाष्पं
प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥९॥ स्वप्रवासवदतम् ४.६

अप्रतिबुद्धः

[सम्पाद्यताम्]
अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम्
नयनविहीने भर्तरि लावण्यमिवेह खञ्जनाक्षीणाम् ॥ १० ॥ सुभषितरत्नभाण्डागारम् १७०.७४२
लोभप्टोदगुणेन किं पिशुनता यध्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यध्यस्ति तीर्थेन किम्
सौजन्यं यदि किं गुणैः स्वमहिमा यध्यस्ति किं मण्डनैः
सद्विध्या यदि किं धनैरपयशो यध्यस्ति किं मृत्युना ॥११॥ भर्तृहरिशतकत्रयम् १.४४.
क्षान्तिप्टोत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद् देहिनां
ज्ञातिप्टोदनलेन किं यदि सुहद् दिव्यौषधैः किं फलम्
किं सर्पैर्यदि दुर्जनाः किमु धनैर्विध्यानवध्या यदि
व्रीडा चेत् किमु भूषणैः सुकविता यध्यस्ति राज्येन किम्॥१२॥ भर्तृहरिशतकत्रयम् १.१७.

अयोग्यता

[सम्पाद्यताम्]
किं करोत्येव पाण्डित्यमस्थाने विनियोजिताम्
अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ॥ १३॥ पञ्चतन्त्रम् १.४२५
यत्र विद्वज्जनो नास्ति शुलाध्यस्तत्राल्पधीरपि
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥१४॥ हितोपदेशम् १.६९

अव्यवस्थितचित्ताः

[सम्पाद्यताम्]
क्षणे तुष्टाः क्षणे रुष्टास्तुष्टा रुष्टाः क्षणे क्षणे
अव्यवस्थितचित्तानां प्रसादोऽपि भयङकरः ॥२५॥ समयोचितपध्यमालिका ६.१८
कृतशतमसत्सु नष्टं सुभषितशतं च नष्टमबुधेषु
वचनशतमवचनकरे बुद्धिशतमचेतने नष्तम् ॥१६॥ हितोपदेशम् २.१६१.
आचार: परमो धर्म आचारः परमं तपः
आचार: परमं ज्ञनमाचारात् किं न साध्यते॥१७॥ समयोचितपध्यमालिका १३.२५

आत्मबलम्

[सम्पाद्यताम्]
जे आत्मबलमं जाणिअ भालं तुलिदं वहेइ माणुस्से
ताह खलणं ण जाअदि ण अ कन्ताल्गदो विवज्जदि ॥१८॥
(यः आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः
तस्य स्खलनं न जायते न च कान्तारगतो विपध्यते॥) मृच्छकटिकम् २.१४.

आत्मश्रेयः

[सम्पाद्यताम्]
यावत् स्वस्थामिदं शरीरमरुजं यावज्जरा दूरतो
यावच्चोन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रतुध्यम: कीदॄशः ॥१९॥ भर्तृहरिशतकत्रयम् ३.७५

आत्मापराधफलानि

[सम्पाद्यताम्]
रोगशोकपरीतापवन्धनव्यसनानि च
आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥२०॥ हितोपदेशम्. १.४१

आतिथ्यम्

[सम्पाद्यताम्]
अरावप्युचितं कार्यमातिथ्यं गृहमागते
छेत्तु: पार्श्वगतां छायां नोपसंहरते द्रुम: ॥ २१॥ हितोपदेशम् १५९.

आपत्परिहारः

[सम्पाद्यताम्]
चिन्तनीया हि विपदामादावेव प्रतिक्रिया
न कूपखननं युक्तं प्रदीप्ते वाह्निना गृहे ॥ २२ ॥ सुभषितरत्नभाण्डागारम् १५३.१७

आर्यः अनार्यः

[सम्पाद्यताम्]
पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि
तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ २३ ॥ सुभाषितावलि ३६.२२१
आशाया ये दासास्ते दासाः सर्वलोकस्य
आशा येषां दासी तेषां दासायते लोकः ॥२४॥ सुभषितरत्नभाण्डागारम् ७६.२८
"https://sa.wikiquote.org/w/index.php?title=मौक्तिकानि_(अकारः)&oldid=17584" इत्यस्माद् प्रतिप्राप्तम्