मौक्तिकानि (पवर्गः)
पटाटोपः
[सम्पाद्यताम्]निर्विषेणापिसर्पेण कर्तव्या महती फटा
विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥ १०५ ॥ पञ्चतन्त्रम्. १.२२५
पण्डितः
[सम्पाद्यताम्]मातृवत् परदारेषु परद्रव्येषु यः पश्यति स पण्डितः ॥ १०६ ॥ हितोपदेशम्. १.१४
परजीवनम्
[सम्पाद्यताम्]धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्
न शक्यं यत्परित्यक्तमात्मच्छन्देन जीवितम् ॥ १०७ ॥ समयोचितपध्यमालिका. ३६.११
परदोषान्वेषणम्म्
[सम्पाद्यताम्]दूरेऽपि परस्यागसि पटुर्जनो नात्मनः समीपेऽपि
स्वं व्रणमक्षि न पश्यति शाशिनि कलङ्कं निरूपयति ॥ १०८ ॥ सुभषितरत्नभाण्डागारम्. ५८.१८१
परान्नजीवी
[सम्पाद्यताम्]रोगी चिरप्रवासी परान्नभोजी परावसतशायी
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ १०९ ॥ हितोपदेशम्. १.१४१
परितोषः
[सम्पाद्यताम्]वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ ११० ॥ भर्तृहरिशतकत्रयम्. ३.५३
परीक्षा
[सम्पाद्यताम्]आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति
विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि ॥ १११ ॥ सुभषितरत्नभाण्डागारम्. १७०.७५५.
परोपकारः
[सम्पाद्यताम्]संक्षेपात् कथ्यते धर्मो जनाः विस्तरेण वः
परोपकारः पुण्याय पापाय परपीडनम् ॥ ११२ ॥ पञ्चतन्त्रम्. ३.१०१.
परोपकारी
[सम्पाद्यताम्]यस्मिन् जीवति जीवन्ति बहवः स तु जीवति
काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ ११३ ॥ हितोपदेशम्. २.३७
परोपजीवत्वम्
[सम्पाद्यताम्]कष्टं खलु मूर्खत्वं कष्टं खलु यौवनेषु दारिद्र्यम्
कष्टात् कष्टतरं किं परगृहवासः परान्नं च ॥ ११४ ॥ सुभषितरत्नभाण्डागारम्. ९६.३
प्रज्ञा
[सम्पाद्यताम्]यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ ११५ ॥ हितोपदेशम्. ३.१११.
पाण्डित्यम्
[सम्पाद्यताम्]को धर्मो भूतदया किं सौख्यमरोगिता जगति जन्तोः
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ ११६ ॥ हितोपदेशम्. १.१४१
पातकम्
[सम्पाद्यताम्]बालत्वे च मृता माता वृद्धत्वे च मृताः सुताः
यौवने च मृता भार्या पातकं विमतः परम् ॥ ११७ ॥ समयोचितपध्यमालिका. ६०.६०
पापः
[सम्पाद्यताम्]
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये
पयःपानं भुजाङ्गानां केवलं विषवर्धनम् ॥ ११८ ॥ पञ्चतन्त्रम्. १.४२०
पापफलम्
[सम्पाद्यताम्]
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ११९ ॥ समयोचितपध्यमालिका. १७.१६
प्राणविमुक्तिः
[सम्पाद्यताम्]जलमग्निर्विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः
निमित्तं किंचिदासध्य देही प्राणैर्विमुच्यते ॥ १२० ॥ हितोपदेशम्. १.१६५
प्राज्ञः
[सम्पाद्यताम्]
अजरामरवत् प्राज्ञो विध्यामर्थं च साधयेत्
गृहीत एव केशेषु मृत्युना धर्ममाचरेत् ॥ १२१ ॥ हितोपदेशम्. प्र. ३.
पितृभक्तिः
[सम्पाद्यताम्]
तिष्ठन्भाति पितुः पुरो भुवि यथा सिंहासने किं तथा
यत्संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरो
रायसः खलु राज्यमुज्झितगुरोस्तत्रास्ति कप्टिदूगुणः ॥ १२२ ॥ नागनन्दम्. १.६
प्रियः
[सम्पाद्यताम्]
अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः
दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ १२३ ॥ हितोपदेशम्. २.१३३
प्रियवचनम्
[सम्पाद्यताम्]प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥ १२४ ॥ समयोचितपध्यमालिका. ६३.९
प्रियवदनः
[सम्पाद्यताम्]
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः
इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥ १२५ ॥ सुभषितरत्नभाण्डागारम्. १६९.७३०
प्रियवादिनः
[सम्पाद्यताम्]
सुलभा पुरुषा राजन् सततं प्रियवादिनः
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १२६ ॥ पञ्चतन्त्रम्. २.१६९
प्रियवादी
[सम्पाद्यताम्]
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्
को विदेशः सुविधानां कः परः प्रियवादिनाम् ॥ १२७ ॥ चाणक्य. ७३
प्रेम
[सम्पाद्यताम्]
अद्दंसणेण पेम्मं अवेइ अइदंसणेण वि अवेइ
पिसुणजणजम्पिएण वि अवेइ एमेअ वि अवेइ ॥ १२८ ॥
(अदर्शनेन प्रेमापैत्यतिदर्शनेनाप्यपैति ॥) गाथासप्तसती -शतक-गाथा. १.८१
पेम्मस्स विरोहिअसंधिअस्स पच्चक्खदिट्ठविलिअस्स
उअअस्स व ताविअसीअलस्स विरसो रसो होइ ॥ १२९ ॥
(प्रेम्णो विरोधितसन्धितस्य प्रत्यक्षदृष्टव्यलीकस्य
उदकस्येव तापितशीतलस्य विरसो रसो भवति) गाथासप्तसती -शतक-गाथा. १.५३
पुरुषः
[सम्पाद्यताम्]
स स्निग्धोऽदुशलान् निवारयति यस्तत् कर्म यन् निर्मलं
सा स्त्री यनुविधायिनी स मतिमान् यः सद्भिरभ्यर्च्यते
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते
तन् मित्रं यदकृत्रिमं स पुरुषो यः खिध्यते नेन्द्रियैः ॥ १३० ॥ हितोपदेशम्. २.१४२.
बन्धनम्
[सम्पाद्यताम्]तावद्दृढं बन्धनमस्ति लोके न दारवं तान्तवमायसं वा
यावद्दृढं बन्धनमेतदेव मुखं च लाक्षं ललितं च वाक्यं ॥ १३१ ॥ सौन्दर. ७.१४
ब्रह्मचर्यपालनम्
[सम्पाद्यताम्]
दुष्करम् साध्वनार्येण मानिना चैव मार्दवं
अतिसर्गप्टा लुब्धेन ब्रह्मचर्य च रागिणा ॥१३२ ॥ सौन्दर. १.१३
बान्धवः
[सम्पाद्यताम्]उत्सवे व्यवसने चैव दुर्भिक्षे शत्रुविग्रहे
राजद्वारे श्मशाने च यस्तिष्ट्ठति स बान्धवः ॥ १३३ ॥ चाणक्य. १७
बुद्धिः
[सम्पाद्यताम्]अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्ष्णम्
आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ।। १३४ ॥ समयोचितपध्यमालिका. ७.३१
बुद्धिविकासः
[सम्पाद्यताम्]यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः ॥ १३५ ॥ सुभषितरत्नभाण्डागारम्. १७०.७६०
भयम्
[सम्पाद्यताम्]अपराधो न मेऽस्तीति नैतद् विश्वासकारणम्
विध्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ १३६ ॥ हितोपदेशम्. १.७५
उत्थायोत्थाय बोद्धाव्यं महद् भयमुपस्थितम्
मरणव्याधिशोकानां किमध्य निपतिष्यति ॥ १३७ ॥ हितोपदेशम्. १.४
भाग्यक्षयः
[सम्पाद्यताम्]यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते ।
तदास्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥ १३८ ॥ मृच्छकटिकम्. १.५३
भूतसमागमः
[सम्पाद्यताम्]यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥ १३९ ॥ हितोपदेशम्. ४.६९.
यथा हि पथिकः कप्टिच्छायामाश्रित्य तिष्ठति
विश्रम्य च पुनर्गच्छेत् तद्वद् भूतसमागमः ॥ १४० ॥ हितोपदेशम्. ४.७०
भेदः
[सम्पाद्यताम्]वाजिवारणलोहानां काष्ठपाषाणवाससाम्
नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ १४१ ॥ हितोपदेशम्. २.४०
मतिमान्
[सम्पाद्यताम्]अर्थनाशं मनस्तापं गृहे दुप्टारितानि च
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ १४२ ॥ हितोपदेशम्. १.१३०
मध्यमः
[सम्पाद्यताम्]ता मज्झिमो व्विअ वरं दुज्जणसुअणेहिं दोहिं वि ण कज्जम्
जह दिट्ठो तवइ खलो तहेअ सुअणो अईसन्तो ॥ १४३ ॥
(तन् मध्यम एव वरं दुर्जनसुजनाभ्यां द्वाभ्यामपि न कार्यम् ।
यथा दुष्टस्तपति खलस्तथैव सुजनोऽदृश्यमानः ॥) गाथासप्तसती -शतक-गाथा. ३.२४
मनः
[सम्पाद्यताम्]प्रदहन्दहनोऽपि गृह्यते विशरीरः पवनोऽपि गृह्यते
कुपितो भुजगोऽपि गृह्यते प्रमदानां तु मनो न गृह्यते ॥ १४४ ॥ सौन्दर.८३६
मन्दगतिः
[सम्पाद्यताम्]शनैः पन्थाः शनैः कन्था शनैः पर्वतलङ्घनम्
शनैर्विध्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥ १४५ ॥ सुभषितरत्नभाण्डागारम्. १५६.१२६.
मनःसन्तोषः
[सम्पाद्यताम्]सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम्
उपानदूगूढपादस्य ननु चर्मावृतैव भूः ॥ १४६ ॥ हितोपदेशम्. १.१४४
मनस्विजनवृत्तिः
[सम्पाद्यताम्]कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः
सर्वेषां मूर्घ्नि वा तिष्ठेद् विशीर्येत वनेऽथवा ॥ १४७ ॥ हितोपदेशम्. १.१३४
मनुष्यरूपमृगाः
[सम्पाद्यताम्]
येषां न विध्या न तपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः
ते मृत्युलोके भुवि भारभूता
मनुष्यरूपेण मृगाप्टारन्ति ॥ १४८ ॥ सुभषितरत्नभाण्डागारम्. ४०.३२
मनोनिग्रहः
[सम्पाद्यताम्]शिल मुण्डिदे तुण्ड मुण्डिदे चित्त ण मुण्डिदे कीश मुण्डिदे
जाह उण अ चित ण मुण्डिदे शाहु शुट्ठु शिल ताह मुण्डिदे ॥ १४९ ॥
(शिरो मुण्डितं तुण्डं मुण्डितं चित्तं न मुण्डितं किमर्ठं मुण्डितम् ।
यस्य पुन्प्टा चित्तं मुण्डितं साधु सुष्ठु शिरस्तस्य मुण्डितम् ॥) मृच्छकटिकम्. ८.३
महाजनाः
[सम्पाद्यताम्]
श्रुतिर्विभिन्ना स्मृतयप्टा भिन्ना नैको मुनिर्यस्य वचः प्रमाणम्
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ १५० ॥सुभषितरत्नभाण्डागारम्. १७३.८५५
महात्मा
[सम्पाद्यताम्]गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम्
तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥ १५१ ॥ भामिनिविलासः १.९२
आमरणान्ताः प्रणयाः कोपस्तत्क्षणभङ्गुराः
परित्यागाप्टा निःसङ्गा भवन्ति हि महात्मनाम् ॥१५२ ॥ हितोपदेशम्. १.१९२
आर्भन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ १५३ ॥ शिशुपालवधम्. २.७९
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्
धर्मे स्वीयमनुष्ठानं कस्यचित् तु महात्मनः ॥ १५४ ॥ हितोपदेशम्. १.१०३
वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता
निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥ १५५ ॥ सुभषितरत्नभाण्डागारम्. ४०.२६४
महात्मा - दुरात्मा
[सम्पाद्यताम्]
मन्स्येकं वचस्येकं कर्मण्येकं महात्मनाम्
मनस्यन्यद् वचनस्यन्यत् कार्ये चान्यद् दुरात्मनाम् ॥ १५६ ॥ समयोचितपध्यमालिका. ५३.८
महापुरुषः
[सम्पाद्यताम्]द्वाविमौ पुरुषौ लोके न भूतौ न भविष्यतः
प्रार्थितं यप्टा कुरुते यप्टा नार्थयते परम् ॥ १५७ ॥ समयोचितपध्यमालिका. ३८.२१.
महिमशालिनः
[सम्पाद्यताम्]
धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चमाः
प्रभवोऽप्यमत्तास्ते महामहिमशालिनः ॥ १५८ ॥ सुभषितरत्नभाण्डागारम्. ४६.५३.
महिमा
[सम्पाद्यताम्]अधोऽधः पश्यतः कस्य महिमा नोपचीयते
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ १५९ ॥ हितोपदेशम्. २.२
ज्वलति चलितेन्धनोऽग्रिर्विप्रकृतः पन्नगः फणां कुरुते
प्रायः स्वं महिमानं क्षोभात् प्रतिपध्यते जन्तुः ॥ १६० ॥ शाकुन्तलम्
मानः
[सम्पाद्यताम्]अधमा धनमिच्छन्ति शनमानौ च मध्यमाः
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १६१ ॥ समयोचितपध्यमालिका.
मित्रम्
[सम्पाद्यताम्]न मातरि न दारेषु न सोदर्ये न चात्मजे
विश्वासस्तादृशः पुसां यादृङ् मित्रे स्वभावजे ॥ १६२ ॥ हितोपदेशम्.
सो अत्थो जो हत्थे तं मित्तं जं णिरन्तरं वसणे
तं रूअं जत्थ गुणा तं विण्णाणं जहिं धम्मो ॥१६३ ॥
(सोऽर्थो यो हस्ते तन् मित्रं यन् निरन्तरं व्यसने
तद् रूपं यत्र गुणास्तद् विज्ञानं यत्र धर्मः ॥) गाथासप्तसती -शतक-गाथा.
मिथःप्रशंसा
[सम्पाद्यताम्]उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभाः
परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः ॥ १६४ ॥ समयोचितपध्यमालिका.
मूर्खः
[सम्पाद्यताम्]अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः
ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ॥ १६५ ॥ हितोपदेशम्.
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ
व्यधिर्भेषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ १६६ ॥ भर्तृहरिशतकत्रयम्.
मूर्खस्य पञ्च चिह्नानि गर्वी दुर्वचनी तथा
हठी चाप्रियवादी च परोक्तं नैव मन्यते ॥ १६७ ॥ समयोचितपध्यमालिका
मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः
तावच्च शोभते मूर्खो यावत् किंचिन्न भाषते ॥ १६८॥ पञ्चतन्त्रम्.
मूर्खजनसेवा
[सम्पाद्यताम्]अरण्यरुदितं क्रुतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमारोपितं सुचिरमूषरे वर्षितम्
श्वपुच्छमवनामितं बधिरकर्णजापः क्रुतः
धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ १६९ ॥ सुभषितरत्नभाण्डागारम्.
मूढः
[सम्पाद्यताम्]सर्वशुचिनिधानस्य क्रुतघ्रस्य विनाशिनः
शरीरकस्यापि कृते मृढाः पापानि कुर्वते ॥ १७० ॥ नागानन्दम्
मृगेन्द्रता
[सम्पाद्यताम्]नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ॥ १७१ ॥ हितोपदेशम्.
मृत्युकारकाः
[सम्पाद्यताम्]दुष्टा भार्या शठं मित्रं भ्रुत्यप्टोत्तरदायकः
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ १७२ ॥ हितोपदेशम्.
मृताः
[सम्पाद्यताम्]
जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ १७३ ॥ पञ्चतन्त्रम्.
मैत्री
[सम्पाद्यताम्]<poem> आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमती च पप्टात् दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ १७४ ॥ भर्तृहरिशतकत्रयम्.