यः कारणानि निखिलानि...

विकिसूक्तिः तः

यः कारणानि निखिलानि तानि कालात्मयुक्तानि अधितिष्ठत्येकः । - श्वेताश्वतरोपनिषत् १-३

योऽसौ परमात्मा कालात्मपर्यन्तस्य सकलस्यापि वस्तुनः ईशिता स एव अस्य जगतः कारणभूतः ।

परमात्मैव जगतः कारणम्, परमात्मैव अस्य नियन्ता, अयं परमात्मैव सर्वतन्त्रस्वतन्त्रः , स एव सर्वान् ईष्टे,
स एव एकः अस्य विश्वस्य प्रभुः । परमेव ब्रह्म अस्य जगतः उपादानं निमित्तं च कारणं भवति ॥

कालः, देशः, स्वभावः, कर्माणि, नियमः, प्रकृतिः, जीवाः, सूर्यः, चन्द्रः, नक्षत्राणि, देवाश्च इति एतेषां सर्वेषामपि
वस्तूनाम् एक एव परमात्मा नियामकः, नियन्ता । परब्रह्मणः सान्निध्येनैव इदं विश्वं सुव्यवस्थितं वर्तते । इदं रहस्यं
तु ध्यानयोगादेव ज्ञायेत । देशकालौ अपि अस्मिन् एव विश्वे अन्तर्भवतः । ईदृशस्य विश्वस्य कारणं परब्रह्मैव ।
समस्तस्यापि विश्वस्य कारणं परमेश्वरः । अयमेव हि भगवान् । वयमपि ध्यानयोगबलेन भगवन्तम् आराध्य भगवतः
अनुग्रहेण भगवन्तम् अधिगम्य कृतार्था भवेम ॥

"https://sa.wikiquote.org/w/index.php?title=यः_कारणानि_निखिलानि...&oldid=16629" इत्यस्माद् प्रतिप्राप्तम्