यतो वा इमानि...

विकिसूक्तिः तः

यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति ।
यत् प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्मेति ॥ - तैत्तिरीयोपनिषत् ३-१-३

इमानि भूतानि यतो जायन्ते, जातानि येन जीवन्ति, यदेव अभिसंविशन्ति प्रयन्ति, तदेव ब्रह्म,
तदेव विजिज्ञासस्व ।

उपनिषत्सु प्रतिपादितस्य तत्त्वस्य ‘ब्रह्म’ इति नाम । ‘ब्रह्म’ नाम निरतिशयं निर्विशेषं महत्
तत्त्वम् इत्यर्थः । अस्य परब्रह्मणः लक्षणं तैत्तिरीयोपनिषदः अयं मन्त्रः सुन्दरतया उपदिशति ॥

समस्तम् इदम् विश्वं यस्माद् उत्पद्यते, येनैव जीवति, यस्मिन्नेव च लीयते तदेव ब्रह्म । एवं समस्तस्यापि
जगतः सृष्टिस्थितिलयकारणभूतं तत्त्वं वेदान्तेषु ब्रह्मशब्देन गीयते । सकलस्यास्य विश्वस्य ब्रह्म उपादानं
निमित्तं च कारणं भवति । अतः ब्रह्म नैव कार्यं भवेत् । जगत्कारणत्वेन ब्रह्मण एव प्रतिपादितत्वात्
कापिलसांख्यदर्शने प्रतिपादितं प्रधानं वा वैशेषिकदर्शने प्रतिपादितः परमाणुर्वा जगतः कारणं नैव भवति इत्यभिप्रायः ॥

"https://sa.wikiquote.org/w/index.php?title=यतो_वा_इमानि...&oldid=16406" इत्यस्माद् प्रतिप्राप्तम्