यत्र सर्वेऽपि नेतारः...

विकिसूक्तिः तः

सुभाषितम्

यत्र सर्वेऽपि नेतारः सर्वे पण्डितमानिनः ।
सर्वे महत्त्वमिच्छन्ति तत्र कार्यं विनश्यति ॥




तात्पर्यम्

यत्र सर्वः अपि नायकः भवितुम् इच्छेत्, यत्र सर्वः अपि आत्मानं पण्डितं मन्यते, यत्र सर्वः अपि उत्तममेव स्थानम् अपेक्षते तत्र कार्यं नष्टं भविष्यति ।

"https://sa.wikiquote.org/w/index.php?title=यत्र_सर्वेऽपि_नेतारः...&oldid=15143" इत्यस्माद् प्रतिप्राप्तम्