यथा चित्तं तथा वाचो...

विकिसूक्तिः तः

सुभाषितम्

यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः ।
चित्ते वाचि क्रियायां च महतामेकरूपता ॥




तात्पर्यम्

मनः यथा विद्यते तथा भवति अस्माकं वचनम् । वचनानुगुणं भवति अस्माकं व्यवहारः । सज्जनानां मनः, वचनं, व्यवहाराश्च समानविधाः भवन्ति ।

"https://sa.wikiquote.org/w/index.php?title=यथा_चित्तं_तथा_वाचो...&oldid=14969" इत्यस्माद् प्रतिप्राप्तम्