यदा ह्येवैष एतस्मिन्...

विकिसूक्तिः तः

यदा ह्येवैष एतस्मिन् उदरमन्तरं कुरुते । अथ तस्य भयं भवति ॥ - तैत्तिरीयोपनिषत् २-७-५

यदा एतस्मिन् ब्रह्मणि अज्ञः कञ्चिदपि भेदं पश्यति, ततः तस्य भयं भवति ॥

लोके भयं नाम सर्वेषामपि ज्ञात एव विषयः । भयं नाम भीतिः । भयस्य अनुभवः कस्य नास्ति ?
ब्रह्माणम् आरभ्य पिपीलिकापर्यन्तानां सर्वेषां प्राणिनाम् भयम् अस्त्येव । मानवेभ्य एव मानवानां भयम् ।
धनवतां स्वपुत्रेभ्य एव भयम् । हिंस्रमृगेभ्यः मानवानां, मानवेभ्यः तेषां क्रूरप्राणिनां च परस्परं भयं दृश्यते ।
अस्मिन् प्रपञ्चे सर्वत्रापि सर्वमपि भयमयमेव । सर्वं भयमयं जगत् ॥

किमत्र कारणम् ? इति पृष्टे प्रतिवचनं ददाति अयं मन्त्रः । आत्मनि भेददर्शनमेव भयहेतुः । आत्मनः
परिपूर्णब्रह्मत्वम् अविज्ञाय, अविद्यया आत्मानं परिच्छिन्नं जीवं मन्यते खलु । तदेव भयकारणम् । अहम्
अन्यः, ब्रह्म च अन्यत् इति अन्यथाज्ञानमेव भयस्य कारणम् । आत्मनः ब्रह्मणश्च भेददर्शनादेव आत्मनः
भयं भवति । आत्मानं परिपूर्णब्रह्मत्वेन विजानतः भयं विद्यते वा ?

"https://sa.wikiquote.org/w/index.php?title=यदा_ह्येवैष_एतस्मिन्...&oldid=16408" इत्यस्माद् प्रतिप्राप्तम्