यद्यदाचरति श्रेष्ठः...

विकिसूक्तिः तः

सुभाषितम्

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥




तात्पर्यम्

ज्येष्ठैः यद् क्रियेत तदेव अन्यैः अपि क्रियते । ज्येष्ठाः यत् प्रमाणमिति वदन्ति तदेव अन्ये अनुसरन्ति ।

"https://sa.wikiquote.org/w/index.php?title=यद्यदाचरति_श्रेष्ठः...&oldid=14980" इत्यस्माद् प्रतिप्राप्तम्