यमेवैष वृणुते तेन...
यमेवैष वृणुते तेन लभ्यः । - काठकोपनिषत् १-२-२३
आत्मानमेव यः वरयति तेनैव आत्मा प्राप्यते ।
आत्मानं प्राप्तुं किं कर्तव्यम् ? जपो वा कर्तव्यः ? पूजा वा कर्तव्या ? वेदाध्ययनं वा कर्तव्यम् ?
तीर्थक्षेत्राटनं वा ? इति चेत्, आत्मार्थित्वे सति आत्मा प्राप्यते । आत्मैव मया ज्ञातव्यः, आत्मा
मया ज्ञातव्य एव, आत्मना एव अर्थी अहम्, आत्मानं विहाय न केनापि पदार्थेन अर्थी अहम् – इति
तीव्रा अर्थिता विद्यते चेत् तादृशः साधकः अवश्यम् आत्मानं प्राप्नोत्येव ॥
आत्मा हि नाम स्वरूपम् । स्वरूपभूतस्य हि आत्मनः बहिरन्वेषणं नाम अविवेकिता खलु ? न हि
नित्यप्राप्तस्य आत्मनः नूतनतया प्राप्तिरस्ति । आत्मनिमित्ता एव हि देहादीनाम् अस्तिता ! आत्मतः
एव शरीरम्, आत्मतः एव इन्द्रियाणि, आत्मत एव प्राणः, आत्मतः एव मनः, आत्मत एव प्रपञ्चोऽयम् ।
सर्वेषां हि स्वरूपभूतोऽयमात्मा । अस्यैव हि आत्मनः वेदान्तेषु ‘ब्रह्म’ इत्यपि नाम भवति । अस्य आत्मनः
प्राप्तिर्नाम अस्य ज्ञानमेव । इदं रहस्यं यः विजानाति तस्य आत्मा प्राप्त एव ॥