यमेवैष वृणुते तेन लभ्यः...

विकिसूक्तिः तः

यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनुं स्वाम् । - मुण्डकोपनिषत् ३-२-३

योऽयं जिज्ञासुः आत्मानमेव वरयते, तस्यैव आत्मप्राप्तिर्भवति । तादृशस्यैव जिज्ञासोः अयमात्मा
आत्मनः नैजं परिपूर्णम् अजम् अमृतं स्वरुपं दर्शयति ॥

आत्मज्ञानस्य प्राप्तिः केषाम् ? आत्मजिज्ञासूनाम् । ये जनाः येन फलेन अर्थिनः तेषामेव तदेव फलं
लभ्यते हि । गृहार्थिनां गृहप्राप्तिः, यशोऽर्थिनां यशः प्राप्तिः, धनार्थिनां धनप्राप्तिः ; स्वर्गार्थी स्वर्गं लभते ।
एवमेव आत्मकामश्चेत् आत्मानमेव लभते ॥

आत्मार्थित्वं नाम किम् ? आत्मनः नैजस्वरूपस्य अवबोधनेच्छा । यथा उपनिषत्सु उपदिष्टम्, तथैव आत्मा
अजम् अजरम् अमृतं ब्रह्माहमस्मि इति कथञ्चिदपि मया ज्ञातव्य एव इति तीव्रेच्छा यस्य जाता स एव जिज्ञासुः ।
स एव च मुमुक्षुः । तस्य सद्गुरुपदेशश्रवणेन आत्मावबोधः स्वयमेव उदेति । ‘अहमेव ब्रह्मास्मि’ इति निश्चयानुभवः
सहजतया सुलभेन जायत एव ॥