युक्ता आयुक्ताः । अलूक्षा...

विकिसूक्तिः तः

युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः ॥ - तैत्तिरीयोपनिषत् १-११

युक्ताः आयुक्ताः अलूक्षाः धर्मकामाश्च तद्विषये यथा वर्तन्ते तथैव युष्माभिः वर्तितव्यम् ।

आचार्यः स्वशिष्याय इमम् उपदेशं करोति । कर्मानुष्ठानविषये वा आचारविचारविषये वा संशये जाते कथं वर्तितव्यम् ?
इति शिष्येण पृष्टः आचार्यः इमम् उपदेशं करोति । एतादृशाः संशयाः प्रश्नाश्च अस्माकमपि जीवने उद्भवन्ति हि । तदा
कथं वर्तितव्यम् ? इति चेत्, उच्यते ॥

तस्मिन् विषये ज्येष्ठाः वृद्धाः यथा अनुतिष्ठन्ति, तथैव अस्माभिरपि अनुष्ठातव्यम् । के ते वृद्धाः ? युक्ताः । तस्मिन् विषये
निपुणाः । आयुक्ता इत्युक्ते अयुक्ताः, स्वतन्त्रप्रज्ञाः इत्यर्थः । तथा अलूक्षाः अरूक्षाः, अक्रूरमतयः इत्यर्थः । धर्मकामाः इति
धार्मिकाः । निपुणाः स्वतन्त्रमतयः सात्त्विकाः धर्मरताश्च वृद्धाः अस्माभिः सदा अनुसर्तव्याः इत्यर्थः ॥