येनाक्षरं पुरुषं वेद...
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् । - मुण्डकोपनिषत् १-२-१३
प्रशान्तचित्ताय शमान्विताय शिष्याय ब्रह्मनिष्ठः सद्गुरुः तां श्रेष्ठां ब्रह्मविद्यां प्रीत्या उपदिशति ।
ब्रह्मविद्यया शिष्यः अक्षरं सत्यं पुरुषं विज्ञाय कृतार्थो भवति ॥
योग्याय शिष्याय करुणासागरः सद्गुरुः ब्रह्मतत्त्वम् उपदिशेत् । न, अवश्यमेव उपदिशति ।
'स्वयमेव स्वतन्त्रः सन् ब्रह्मजिज्ञासां नैव कुर्यात्' इति शिष्यस्य यथा नियमः, एवमेव 'आत्मानम्
उपसन्नाय योग्याय शिष्याय जिज्ञासवे ब्रह्मतत्त्वम् उपदिशेत्' इति ब्रह्मविद्याचार्यस्यापि शास्त्रनियमः
एव इति भगवान् श्रीशंकरः 'आचार्यस्यापि अयमेव नियमः यत् न्यायप्राप्तसच्छिष्यनिस्तारणम्
अविद्यामहोदधेः' इति लिखति ॥
योग्याय जिज्ञासुशिष्याय सद्गुरुः अक्षरस्वरूपम् उपदिशति । अक्षरं नाम नाशरहितं तत्त्वम् ।
इदमेव पुरुषशब्देनापि कथ्यते । अस्य विज्ञानमेव ब्रह्मज्ञानमिति उच्यते । इयमेव हि शिष्याणां
सद्गुरुकृपानुग्रहनिमित्ता श्रेष्ठा सम्पत् ॥