यो वै प्राणः सा प्रज्ञा...

विकिसूक्तिः तः

यो वै प्राणः सा प्रज्ञा, या प्रज्ञा स प्राणः । - कौषीतकिब्राह्मणोपनिषत् ३-३

यो वै प्राणः सा एव प्रज्ञा, या प्रज्ञा स एव च प्राणः ।

अस्मिन् मन्त्रे प्राणप्रज्ञयोः अभेदः प्रतिपाद्यते । प्राणो नाम देहेन्द्रियाणि संव्याप्य तेषु चैतन्यपूरयिता
तद्द्वारा नानाव्यापारान् कुर्वती सूक्ष्मा शक्तिः । अयमेव प्राणः, अपानः, व्यानः, उदानः, समानः इति
पञ्चभिः व्यापारैः पञ्चनामा भवति । अयमेव च प्राणः ज्येष्ठः श्रेष्ठः सूक्ष्मः सर्वव्यापकश्च इति वेदान्तेषु
गीयते । प्राणो नाम परमार्थतः परमात्मा अपि भवति ॥

प्रज्ञा तु चैतन्यम् । इयं प्रज्ञा अपि देहेन्द्रियादीनि संव्याप्य विद्यमाना अद्भुता शक्तिः । प्रज्ञाहीनश्चेत्
जन्तुः शव एव खलु ? प्रज्ञाप्राणयोः अनुग्रहेणैव हि इदं शरीरं जीवति ? उभयमप्येतत् एकस्यैव नाणकस्य
मुखद्वयमिव । तस्मादेव हेतोः प्रज्ञा एव प्राणः, प्राण एव च प्रज्ञा इति अत्र उपदिश्यते । परमात्मैव प्राणरूपेण
प्रज्ञास्वरूपेण च अवभासते । प्राणेन विना, प्रज्ञया च विना सर्वं वस्तु व्यवहारायोग्यं भवति ॥