यौवनं धनसम्पत्तिः...
दिखावट
सुभाषितम्
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥
तात्पर्यम्
तारुण्यं, सम्पत्तिः, अधिकारः, अविवेकिता - एतेषु एकैकः अपि अनर्थाय भवति । एते चत्वारि अपि एकस्मिन् जने यदि भवेयुः तर्हि तस्य का गतिः ? (ते जनं पूर्णतया विनाशयन्ति ।)