रसो वै सः...
रसो वै सः। रसं ह्येवायं लब्ध्वा आनन्दी भवति । - तैत्तिरीयोपनिषत् २-७-२
सः एषः आत्मा रसः, अयं जीवः आत्मानन्दरसं लब्ध्वा एव
हि आनन्दी भवति ।
प्रत्यक्षादिप्रमाणगोचरोऽपि आत्मा ‘नास्ति’ इति न मन्तव्यम् ।
इन्द्रियाणामपि प्रत्यगात्मभूतम् एतं परमात्मानम् इन्द्रियैः द्र्ष्टुं
नैव शक्यते । तर्हि सः परमात्मा ‘अस्ति’ इत्यत्र प्रमाणं किम् ?
अस्माकम् अनुभव एव प्रमाणम् । तत् कथम् ? इति चेत् ॥
आत्मा रसस्वरूपः । रसो नाम आनन्दः । आनन्दस्वरूप एव
आत्मा । अयम् आनन्दस्वरूपः आत्मैव सर्वस्यापि जीवस्य
आनंदित्वे कारणम् । सर्वः प्राणी सर्वथा जीवितुम् इच्छति खलु ?
किं कारणम् ? रसस्वरूपस्य ब्रह्मणः एतेषां प्रत्यगात्मत्वात् ॥
'तपस्विनः बाह्यसुखसाधनरहिता अपि अनीहाः निरेषणाः ब्राह्मणाः
बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसः' इति शाङ्करं भाष्यम् ।
कथं ते तपस्विनः सानन्दाः सदा ? आनन्दरसस्वरूपस्य ब्रह्मणः
तेषां स्वरूपत्वात् ॥