राजन् ! कमलपत्राक्ष !...

विकिसूक्तिः तः

राजन् ! कमलपत्राक्ष ! तत्ते भवतु चाक्षयम् ।
आसादयति यद्रूपं करेणुः करणैः विना ॥

कमलमिव नेत्रयुक्त राजन्, करेणोः (हस्तिन्याः) करणानि (इन्द्रियाणि) यदि न भवेयुः तर्हि यत् रूपं प्राप्येत तत् भवतः अक्षयं भवतु ।
करेणुः इत्यस्मिन् शब्दे क् र् ण् इत्येतान् वर्णान् यदि निष्कासयेम तर्हि अवशिष्यते - अ + ए + उः । (सन्धिः कार्यः)

उत्तरम्

आयुः
"https://sa.wikiquote.org/w/index.php?title=राजन्_!_कमलपत्राक्ष_!...&oldid=2816" इत्यस्माद् प्रतिप्राप्तम्