रामायणसूक्तयः (कर्म)
दिखावट
१. अविज्ञाय फलं यो हि कर्मत्वेवानुधावति ।
- स शोचेत् फलवेलायां यथा किंशुकसेचकः ॥ (अयोध्याकाण्डः ६३/९)
२. ऐहलओकिकपारक्यं कर्म पुंभिर्निषेव्यते ।
- कर्माण्यपि तु कल्यानि लभते काम्मास्थितः ॥ (युद्धकाण्डः ६४/९)
३. ऋद्धिं रूपं बलं पुत्रान् वित्तं शूरत्वमेव च ।
- प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ (उत्तरकाण्डः २५/२६)
४. कर्तव्यमकृतं कार्यं सतां मनुमुदीरयेत् । (सुन्दरकाण्डः १/९७)
५. कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् ।
- श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ (युद्धकाण्डः ६४/७)
६. कशिचदाम्रवणं छित्त्वा पलाशाशंच निषिञ्चति ।
- पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ (अयोध्याकाण्डः ६३/८)
७. धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति । (सुन्दरकाण्डः १/२०१)
८. न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ।
- कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये ॥ (अरण्यकाण्डः ४९/२७)
९. पापस्य हि फलं दुःखं तद् भोक्तव्यमिहात्मना । (उत्तरकाण्डः १५/२४)
१०. प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।
- लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥ (उत्तरकाण्डः ५४/१६)
११. यदाचरति कल्याणि शुभं वा यदि वाशुभम् ।
- तदेव लभते भद्रे कर्ता कर्मजात्मनः ॥ (अयोध्याकाण्डः ६३/६)
१२. यादृशं कुरुते कर्म तादृशं फलमश्नुते ।
- (उत्तरकाण्डः १५/२५)
१३. लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । (उत्तरकाण्डः ८३/२०)
२४. शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते । (युद्धकाण्डः १११/२६)