रामायणसूक्तयः (जाह्नवी)

विकिसूक्तिः तः

१. गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च ।

त्रीन् पथोभावयन्तीति तस्मात् त्रिपथगा स्मृता ॥ (बालकाण्डः ४४/६)

२. ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः ।

तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥ (बालकाण्डः ४३/३८)