रामायणसूक्तयः (दुर्जनः)

विकिसूक्तिः तः

१. अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।

अवश्यं मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषकाः ॥ (युद्धकाण्डः ६३/१६)

२. अहिरेव ह्यहेः पादान् विजानाति न संशयः । (सुन्दरकाण्डः ४२/९)

३. छादयित्वाऽत्मभावं हि चरन्ति शठबुद्धयः ।

प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् ॥ (युद्धकाण्डः ९७/४०)

४. धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम् ।

त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥ (युद्धकाण्डः ८७/२१)

५. परस्वानां च हरणं परदाराभिमर्शनम् ।

सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः ॥ (युद्धकाण्डः ८७/२३)

६. परस्वहरेण युक्तं परदाराभिमर्शकम् ।

त्याज्यमाहुर्दुरात्मानं वेश्म प्रज्वलितं यथा ॥ (युद्धकाण्डः ८७/२२)

७. प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ।

असामर्थ्यफला ह्यन्ते निर्गुणेषु सतां गुणाः ॥ (युद्धकाण्डः २१/१४)

८. सन्ति दुःसंस्थिता कुब्जाः वक्राः परमपापिकाः । (अयोध्याकाण्डः ९/४०)

९. सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् । (युद्धकाण्डः २१/१५)