रामायणसूक्तयः (दैवम्)
दिखावट
१. असङ्कल्पितमेवेह यदकस्मात् प्रवर्तते ।
- निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत् ।। (अयोध्याकाण्डः २२/२४)
२. ऋषयोऽप्युग्रतपसो दैवेनाभिप्रचोदिताः ।
- उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥ (अयोध्याकाण्डः २२/२३)
३. कश्च दैवेन सौमित्रे योद्धमुत्सहते पुमान् ।
- यस्य नु ग्रहणं किंचित् कर्मणोऽन्यन्न द्रुश्यते ॥ (अयोध्याकाण्डः २२/२१)
४. दैवमेव परं मन्ये पौरुषं तु निरर्थकम् । (बालकाण्डः ५८/२२)
५. दैवेनाक्रम्यते सर्वंहि परमा गतिः । (बालकाण्डः ५८/२३)
६. दैवं चेष्टयते सर्वं हतं दैवेन हन्यते । (युद्धकाण्डः ११०/२३)
७. दैवं हि दुरतिक्रमम् । (उत्तरकाण्डः ५०/४)
८. न मन्ये ब्रह्मचर्ये वा स्वधीते वा फलोदयः ।
- मार्दवार्जवयोर्वापि त्वां चेद् व्यसनमागतम् ॥ (अयोध्याकाण्डः ५२/१७)
९. नूनं तु बलवाँल्लोके कृतान्तः सर्वमादिशन् ।
- लोके रामाभिरामस्तवं वनं यत्र गमिष्यसि ॥ (अयोध्याकाण्डः २४/५)
१०. यदचिन्त्यं तु तद् दैवम् । (अयोध्याकाण्डः २२/२०)
११. यो हि देवान् सगन्धर्वानसुरान् सह राक्षसैः ।
- निहन्याद् राघवः क्रुद्धः स दैवं पर्युपासते ॥
१२. यौ धर्मौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम् ।
- आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥ (अरण्यकाण्डः ६६/११)
१३. सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
- यस्य किंचित् तथाभूतं ननु देवस्य कर्म तत् ॥ (अयोध्याकाण्डः २२/२२)
१४. सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ ।
- न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः ॥ (अरण्यकाण्डः ६६/१२)