रामायणसूक्तयः (पितृवचनम्)

विकिसूक्तिः तः

१. न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम् ।

यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ (अयोध्याकाण्डः १९/२२)

२. पिता हि दैवतं तात देवतानामपि स्मृतम् ।

तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः ॥ (अयोध्याकाण्डः ३४/५२)

३. पितुर्हि वचनं कुर्वन् न कश्चिन्नाम हीयते । (अयोध्याकाण्डः २१/३७)