रामायणसूक्तयः (प्रतिज्ञा)

विकिसूक्तिः तः

१. दैवं पुरुषकारेण यः समर्थः प्रबाधितम् ।

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ (अयोध्याकाण्डः २३/१७)

२. न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति ।

एवमेव नरव्याघ्रः परलीढं न मंस्यते ॥ (अयोध्याकाण्डः १०७/१२)

३. विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ।

वीराः सम्भावितात्मानो न अदैवं पर्युपासते ॥ (अयोध्याकाण्डः २३/१६)

४. सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति ।

कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः ॥ (युद्धकाण्डः ११५/१६)