रामायणसूक्तयः (मन्त्रणा)

विकिसूक्तिः तः

१. काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह ।

निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥ (युद्धकाण्डः ६३/१२)

२. यथागमं च यो राजा समयं च चिकीर्षति ।

बुध्यते सचिवैर्बुद्ध्या सुहृदश्चानुपश्यति ॥ (युद्धकाण्डः ६३/८)