रामायणसूक्तयः (राजधर्मः)

विकिसूक्तिः तः

१. अकृतात्मानमासाद्य राजानमनये रतम् ।

समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ (सुन्दरकाण्डः २१/११)

२. अधर्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः ।

यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत् ॥ (अरण्यकाण्डः ६/११)

३. अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।

षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ (उत्तरकाण्डः ७४/३१)

४. अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय ।

कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून् ॥ (अयोध्याकाण्डः ३/४४)

५. औरस्यानपि पुत्रान् हि त्यजन्त्यहितकारिणः ।

समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः ॥(अयोध्याकाण्डः २६/३६)

६. इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।

तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः ॥ (अयोध्याकाण्डः ३/४५)

७. कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते । (उत्तरकाण्डः ५३/२५)

८. कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च ।

परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥ (अयोध्याकाण्डः ३/४३)

९. चपलस्येह कृत्यानि सहसानुप्रधावतः ।

छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ (युद्धकाण्डः६३/१९)

१०. तान् भर्ता मित्रसंकाशानमित्रान् मन्त्रनिर्णये ।

व्यवहारेण जानीयात् सचिवानुपसंहितान् ॥ (युद्धकाण्डः६३/१८)

११. नीत्या सुनीतया राजा धर्मं रक्षति रक्षिता ।

यदा न पालयेद् राजा क्षिप्रं नश्यन्ति वै प्रजाः ॥ (उत्तरकाण्डः (प्रक्षिप्तः ) २/४)

१२. प्रजा च परिपाल्या हि क्षात्रधर्मेण राघव । (उत्तरकाण्डः ६२/१४)

१३. पौरकार्याणि यो राजा न करोति दिने-दिने ।

संवृते नरके घोरे पतितो नात्र संशयः ॥ (उत्तरकाण्डः ५३/६)

१४. पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः ।

न तु खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ (अयोध्याकाण्डः ४६/२३)

१५. बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् । (उत्तरकाण्डः ४०/११)

१६. यत् करोति परं धर्मं मुनिर्मूलफलाशनः ।

तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ॥ (अरण्यकाण्डः ६/१४)

१७. यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ।

परमो ह्येष धर्मस्ते तस्मात् कीर्तिरनुत्तमा ॥ (उत्तरकाण्डः ४८/१५)

१८. यु्ञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव ।

नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः ॥
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् ।
ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ॥ (अरण्यकाण्डः ६/१२-१३)

१९. यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ।

करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।
क्षिप्रं च नरकं याति स च राजा न संशयः ॥ (उत्तरकाण्डः ७४/३०)

२०. यो हि शत्रुमवज्ञाय आत्मानं नाभिरक्षति ।

अवाप्नोति हि साऽनर्थान् स्थानाञ्च व्यवरोप्यते ॥ (युद्धकाण्डः६३/२०)

२१. राजा कर्ता च गोप्ता च सर्वस्य जगतः पिता ।

राजा कालो युगं चैव राजा सर्वमिदं जगत् ॥ (उत्तरकाण्डः (प्रक्षिप्तः ) २/६)

२२. राजैव कर्त्ता भूतानां राजा चैव विनायकः ।

राजा सुप्तेषु जागर्ति राजा पालयति प्रजाः ॥ (उत्तरकाण्डः (प्रक्षिप्तः ) २/४)