रामायणसूक्तयः (रामस्य गुणः)

विकिसूक्तिः तः

१. कदाचिदुपकारेण कृतेनैकेन तुष्यति ।

न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ (अयोध्याकाण्डः १/११)

२. रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।

प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः ॥ (अयोध्याकाण्डः २/४४)

३. रामः सत्पुरुषो लोके सत्यः सत्यपरायणः ।

साक्षाद् रामाद् विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥ (अयोध्याकाण्डः २/२९)

४. शक्तस्त्रैसोक्यमप्येष भोक्तुं किं नु महीमिमाम् ।

नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥ (अयोध्याकाण्डः २/४५९)

५. स च नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते ।

उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ (अयोध्याकाण्डः १/१०)