रामायणसूक्तयः (वनस्य दोषः)

विकिसूक्तिः तः

१. अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः ।

भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ (अयोध्याकाण्डः २८/१८)

२. उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि ।

जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम् ॥ (अयोध्याकाण्डः २८/१३)

३. कायक्लेशाश्च बहवो भयानि विविधानि च ।

अरण्यवासे वसतो दुःखमेव सदा वनम् ॥ (अयोध्याकाण्डः २८/२३)

४. द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि ।

वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम् ॥ (अयोध्याकाण्डः २८/२२)

५. पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह ।

बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् । (अयोध्याकाण्डः २८/२१)

६. बहुदोषं हि कान्तारं वनमित्यभिधीयते । (अयोध्याकाण्डः २८/५)

७. सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः ।

मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ (अयोध्याकाण्डः २८/९)

८. सदा सुखं न जानामि दुःखमेव सदा वनम् । (अयोध्याकाण्डः २८/६)