रामायणसूक्तयः (स्वभावः)

विकिसूक्तिः तः

१. आम्रं छित्त्वा कुठारेण निम्बं परिचरेत् तु कः ।

यश्चैनं पयसा सिञ्चेत्रैवास्य मधुरो भवेत् ॥ (अयोध्याकाण्डः ३५/१६)

२. न हि निम्बात् स्त्रवेत् क्षौद्रं लोके निगदितं वचः । (अयोध्याकाण्डः ३५/१७)

३. प्रकृतिं गूहमानस्य निश्चयेन कृतिध्रुवा । (उत्तरकाण्डः (प्रक्षिप्तः ) २/२६)

४. प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः ।

शूराणां शुद्धभावानां भक्तानामार्जवं बलम् ॥ (युद्धकाण्डः ५०/५३)

५. सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति माम् ।

पितॄन् समनुजायन्ते नरा मातरमङ्गनाः ॥ (अयोध्याकाण्डः ३५/२८)