रूपयौवनसम्पन्ना...

विकिसूक्तिः तः

सुभाषितम्

रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ हितोपदेशः ३९




तात्पर्यम्

रूपेण यौवनेन च युक्ताः उत्तमकुले सञ्चाताः अपि जनाः विद्याविहीनाः यदि भवेयुः तर्हि ते गन्धरहितानि किंशुकपुष्पाणि इव न शोभन्ते । विद्या एव वस्तुतः व्यक्तेः शोभां वर्धयति । विद्याविहीनाः पुरुषाः तु सुगन्धविहीनानि पुष्पाणि इव आकर्षणरहितानि भवन्ति ।

"https://sa.wikiquote.org/w/index.php?title=रूपयौवनसम्पन्ना...&oldid=17798" इत्यस्माद् प्रतिप्राप्तम्