विज्ञानं यज्ञं तनुते...

विकिसूक्तिः तः

विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे ।
ब्रह्म ज्येष्ठमुपासते ॥ - तैत्तिरीयोपनिषत् २-५-१

विज्ञानमेव यज्ञं कुरुते, विज्ञानमेव कर्माणि तनुते । सर्वे देवाः विज्ञानमेव
ज्येष्ठं ब्रह्म उपासते ॥

पञ्चकोशानां मध्ये अयं विज्ञानमयः चतुर्थः । मनोमयात् आत्मनोऽपि अयं
विज्ञानमयः आत्मा सूक्ष्मः व्यापकः । विज्ञानमिति बुद्धिः । विज्ञानोपाधिकः
आत्मा विज्ञानमयः । विज्ञानं विना जीवस्य व्यवहार एव नास्ति । बुद्धिरेव
हि मानवस्य सम्पत् ? बुद्धिनाशे सति मानवः मृतप्राय एव ॥

अस्य विज्ञानमयस्य महिमा अद्भुतः । विज्ञानमय एव स्वबुद्धया लौकिकानि
वैदिकानि च कर्माणि कुरुते । बुद्धया हि बुद्धिमतो मनुष्यस्य मौल्यम् ? बुद्धया
सर्वं कर्म कुर्यात् मानवः । इदं विज्ञानमेव इन्द्रादिदेवाः सर्वे उपासते । इन्द्रियाणि
सर्वाणि इमां बुद्धिमेव आश्रित्य जीवन्ति । इदं विज्ञानमेव ब्रह्मभावेन उपासते
चेत् सः बुद्धिमान् भवति ॥

"https://sa.wikiquote.org/w/index.php?title=विज्ञानं_यज्ञं_तनुते...&oldid=16411" इत्यस्माद् प्रतिप्राप्तम्