सामग्री पर जाएँ

विदुरनीतिः (अध्यायः ३६)

विकिसूक्तिः तः

 विदुर उवाच ।

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ १॥

चरन्तं हंसरूपेण महर्षिं संशितव्रतम् ।
साध्या देवा महाप्राङ्य़ं पर्यपृच्च्हन्त वै पुरा ॥ २॥

 साध्या ऊचुः ।
साध्या देवा वय्मस्मो महर्षे
दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् ।
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः
काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ ३॥

 हंस उवाच ।

एतत्कार्यममराः संश्रुतं मे
धृतिः शमः सत्यधर्मानुवृत्तिः ।
ग्रन्थिं विनीय हृदयस्य सर्वं
प्रियाप्रिये चात्मवशं नयीत ॥ ४॥

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ५॥

नाक्रोशी स्यान्नावमानी परस्य
मित्रद्रोही नोत नीचोपसेवी ।
न चातिमानी न च हीनवृत्तो
रूक्षां वाचं रुशतीं वर्जयीत ॥ ६॥

मर्माण्यस्थीनि हृदयं तथासून्
घोरा वाचो निर्दहन्तीह पुंसाम् ।
तस्माद्वाचं रुशतीं रूक्षरूपां
धर्मारामो नित्यशो वर्जयीत ॥ ७॥

अरुं तुरं परुषं रूक्षवाचं
वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।
विद्यादलक्ष्मीकतमं जनानां
मुखे निबद्धां निरृतिं वहन्तम् ॥ ८॥

परश्चेदेनमधिविध्येत बाणैर्
भृशं सुतीक्ष्णैरनलार्क दीप्तैः ।
विरिच्यमानोऽप्यतिरिच्यमानो
विद्यात्कविः सुकृतं मे दधाति ॥ ९॥

यदि सन्तं सेवते यद्यसन्तं
तपस्विनं यदि वा स्तेनमेव ।
वासो यथा रङ्ग वशं प्रयाति
तथा स तेषां वशमभ्युपैति ॥ १०॥

वादं तु यो न प्रवदेन्न वादयेद्
यो नाहतः प्रतिहन्यान्न घातयेत् ।
यो हन्तुकामस्य न पापमिच्च्हेत्
तस्मै देवाः स्पृहयन्त्यागताय ॥ ११॥

अव्याहृतं व्याहृताच्च्ह्रेय आहुः
सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।
प्रियंवदेद्व्याहृतं तत्तृतीयं
धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ १२॥

यादृशैः संविवदते यादृशांश् चोपसेवते ।
यादृगिच्च्हेच्च भवितुं तादृग्भवति पूरुषः ॥ १३॥

यतो यतो निवर्तते ततस्ततो विमुच्यते ।
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ १४॥

न जीयते नोत जिगीषतेऽन्यान्
न वैरक्कृच्चाप्रतिघातकश् च ।
निन्दा प्रशंसासु समस्वभावो
न शोचते हृष्यति नैव चायम् ॥ १५॥

भावमिच्च्हति सर्वस्य नाभावे कुरुते मतिम् ।
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥ १६॥

नानर्थकं सान्त्वयति प्रतिङ्य़ाय ददाति च ।
राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥ १७॥

दुःशासनस्तूपहन्ता न शास्ता
नावर्तते मन्युवशात्कृतघ्नः ।
न कस्य चिन्मित्रमथो दुरात्मा
कलाश्चैता अधमस्येह पुंसः ॥ १८॥

न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः ।
निराकरोति मित्राणि यो वै सोऽधम पूरुषः ॥ १९॥

उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् ।
अधमांस्तु न सेवेत य इच्च्हेच्च्ह्रेय आत्मनः ॥ २०॥

प्राप्नोति वै वित्तमसद्बलेन
नित्योत्थानात्प्रङ्य़या पौरुषेण ।
न त्वेव सम्यग्लभते प्रशंसां
न वृत्तमाप्नोति महाकुलानाम् ॥ २१॥

 धृतराष्ट्र उवाच ।

महाकुलानां स्पृहयन्ति देवा
धर्मार्थवृद्धाश्च बहुश्रुताश् च ।
पृच्च्हामि त्वां विदुर प्रश्नमेतं
भवन्ति वै कानि महाकुलानि ॥ २२॥

 विदुर उवाच ।

तमो दमो ब्रह्मवित्त्वं वितानाः
पुण्या विवाहाः सततान्न दानम् ।
येष्वेवैते सप्तगुणा भवन्ति
सम्यग्वृत्तास्तानि महाकुलानि ॥ २३॥

येषां न वृत्तं व्यथते न योनिर्
वृत्तप्रसादेन चरन्ति धर्मम् ।
ये कीर्तिमिच्च्हन्ति कुले विशिष्टां
त्यक्तानृतास्तानि महाकुलानि ॥ २४॥

अनिज्ययाविवाहैर्श्च वेदस्योत्सादनेन च ।
कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥ २५॥

देव द्रव्यविनाशेन ब्रह्म स्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २६॥

ब्राह्मणानां परिभवात्परिवादाच्च भारत ।
कुलान्यकुलतां यान्ति न्यासापहरणेन च ॥ २७॥

कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः ।
कुलसङ्ख्यां न गच्च्हन्ति यानि हीनानि वृत्ततः ॥ २८॥

वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।
कुलसङ्ख्यां तु गच्च्हन्ति कर्षन्ति च मयद्यशः ॥ २९॥

मा नः कुले वैरकृत्कश् चिदस्तु
राजामात्यो मा परस्वापहारी ।
मित्रद्रोही नैकृतिकोऽनृती वा
पूर्वाशी वा पितृदेवातिथिभ्यः ॥ ३०॥

यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् ।
न नः स समितिं गच्च्हेद्यश्च नो निर्वपेत्कृषिम् ॥ ३१॥

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
सतामेतानि गेहेषु नोच्च्हिद्यन्ते कदा चन ॥ ३२॥

श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् ।
प्रवृत्तानि महाप्राङ्य़ धर्मिणां पुण्यकर्मणाम् ॥ ३३॥

सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै
शक्तो वोढुं न तथान्ये महीजाः ।
एवं युक्ता भारसहा भवन्ति
महाकुलीना न तथान्ये मनुष्याः ॥ ३४॥

न तन्मित्रं यस्य कोपाद्बिभेति
यद्वा मित्रं शङ्कितेनोपचर्यम् ।
यस्मिन्मित्रे पितरीवाश्वसीत
तद्वै मित्रं सङ्गतानीतराणि ॥ ३५॥

यदि चेदप्यसम्बन्धो मित्रभावेन वर्तते ।
स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ ३६॥

चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः ।
पारिप्लवमतेर्नित्यमध्रुवो मित्र सङ्ग्रहः ॥ ३७॥

चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् ।
अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥ ३८॥

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ ३९॥

सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ४०॥

अर्थयेदेव मित्राणि सति वासति वा धने ।
नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥ ४१॥

सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् ।
सन्तापाद्भ्रश्यते ङ्य़ानं सन्तापाद्व्याधिमृच्च्हति ॥ ४२॥

अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ ४३॥

पुनर्नरो म्रियते जायते च
पुनर्नरो हीयते वर्धते पुनः ।
पुनर्नरो याचति याच्यते च
पुनर्नरः शोचति शोच्यते पुनः ॥ ४४॥

सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वमिह स्पृशन्ति
तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥ ४५॥

चलानि हीमानि षडिन्द्रियाणि
तेषां यद्यद्वर्तते यत्र यत्र ।
ततस्ततः स्रवते बुद्धिरस्य
च्हिद्रोद कुम्भादिव नित्यमम्भः ॥ ४६॥

 धृतराष्ट्र उवाच ।

तनुरुच्च्हः शिखी राजा मिथ्योपचरितो मया ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ ४७॥

नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः ।
यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ ४८॥

विदुर उवाच ।

नान्यत्र विद्या तपसोर्नान्यत्रेन्द्रिय निग्रहात् ।
नान्यत्र लोभसन्त्यागाच्च्हान्तिं पश्याम तेऽनघ ॥ ४९॥

बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् ।
गुरुशुश्रूषया ङ्य़ानं शान्तिं त्यागेन विन्दति ॥ ५०॥

अनाश्रिता दानपुण्यं वेद पुण्यमनाश्रिताः ।
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ ५१॥

स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥ ५२॥

स्वास्तीर्णानि शयनानि प्रपन्ना
न वै भिन्ना जातु निद्रां लभन्ते ।
न स्त्रीषु राजन्रतिमाप्नुवन्ति
न मागधैः स्तूयमाना न सूतैः ॥ ५३॥

न वै भिन्ना जातु चरन्ति धर्मं
न वै सुखं प्राप्नुवन्तीह भिन्नाः ।
न वै भिन्ना गौरवं मानयन्ति
न वै भिन्नाः प्रशमं रोचयन्ति ॥ ५४॥

न वै तेषां स्वदते पथ्यमुक्तं
योगक्षेमं कल्पते नोत तेषाम् ।
भिन्नानां वै मनुजेन्द्र परायणं
न विद्यते किं चिदन्यद्विनाशात् ॥ ५५॥

सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः ।
सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं ङ्य़ातितो भयम् ॥ ५६॥

तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः ।
बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥ ५७॥

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ङ्य़ातयो भरतर्षभ ॥ ५८॥

ब्राह्मणेषु च ये शूराः स्त्रीषु ङ्य़ातिषु गोषु च ।
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ ५९॥

महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः ।
प्रसह्य एव वातेन शाखा स्कन्धं विमर्दितुम् ॥ ६०॥

अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः ।
ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥ ६१॥

एवं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवौकजम् ॥ ६२॥

अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च ।
ङ्य़ातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ॥ ६३॥

अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ङ्य़ातयः ।
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ ६४॥

न मनुष्ये गुणः कश्चिदन्यो धनवताम् अपि ।
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ ६५॥

अव्याधिजं कटुकं शीर्ष रोगं
पापानुबन्धं परुषं तीक्ष्णमुग्रम् ।
सतां पेयं यन्न पिबन्त्यसन्तो
मन्युं महाराज पिब प्रशाम्य ॥ ६६॥

रोगार्दिता न फलान्याद्रियन्ते
न वै लभन्ते विषयेषु तत्त्वम् ।
दुःखोपेता रोगिणो नित्यमेव
न बुध्यन्ते धनभोगान्न सौख्यम् ॥ ६७॥

पुरा ह्युक्तो नाकरोस्त्वं वचो मे
द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् ।
दुर्योधनं वारयेत्यक्षवत्यां
कितवत्वं पण्डिता वर्जयन्ति ॥ ६८॥

न तद्बलं यन्मृदुना विरुध्यते
मिश्रो धर्मस्तरसा सेवितव्यः ।
प्रध्वंसिनी क्रूरसमाहिता श्रीर्
मृदुप्रौढा गच्च्हति पुत्रपौत्रान् ॥ ६९॥

धार्तराष्ट्राः पाण्डवान्पालयन्तु
पाण्डोः सुतास्तव पुत्रांश्च पान्तु ।
एकारिमित्राः कुरवो ह्येकमन्त्रा
जीवन्तु राजन्सुखिनः समृद्धाः ॥ ७०॥

मेढीभूतः कौरवाणां त्वमद्य
त्वय्याधीनं कुरु कुलमाजमीढ ।
पार्थान्बालान्वनवास प्रतप्तान्
गोपायस्व स्वं यशस्तात रक्षन् ॥ ७१॥

सन्धत्स्व त्वं कौरवान्पाण्डुपुत्रैर्
मा तेऽन्तरं रिपवः प्रार्थयन्तु ।
सत्ये स्थितास्ते नरदेव सर्वे
दुर्योधनं स्थापय त्वं नरेन्द्र ॥ ७२॥


॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरहितवाक्ये षट्त्रिंशोऽध्यायः ॥ ३६॥