अथ परा, यया तदक्षरमधिगम्यते...

विकिसूक्तिः तः

अथ परा, यया तदक्षरमधिगम्यते । - मुण्डकोपनिषत् १-१-६

यया तदक्षरम् अधिगम्यते सा परा विद्या अथ उच्यते ।

मुण्डकोपनिषदि सर्वा अपि विद्याः परा अपरा इति विभज्य
अत्र प्रकृते मन्त्रे परस्याः विद्यायाः स्वरूपं प्रदर्श्यते । परा
इति श्रेष्ठा, उत्कृष्टा, प्रकृष्टा, प्रशस्ता इत्यर्थः । अत्यन्तश्रेष्ठायाः
मंगळभूतायाः विद्याया एव परा विद्या इति नामधेयम् ।
का वा ईदृशी परा विद्या भवेत् ? इति चेत् । अयं मन्त्रः
पराविद्यास्वरूपं दर्शयति ॥

यया विद्यया ’अक्षरस्य’ स्वरूपम् अधिगम्यते सा एव परा
विद्या । अक्षरं नाम (न क्षरति इति) नाशरहितं ब्रह्म ।
जन्मरहितत्वात् नाशरहितम्, देशकालातीतं परं ब्रह्म अक्षरम्
इति कथ्यते । समस्तस्यापि विश्वस्य जन्मस्थितिलयकारणं
तत्त्वम् अक्षरम् । या विद्या इदम् अक्षरं प्रतिपादयति सा
एव पराविद्या । अतः परब्रह्मविद्या एव एका परा विद्या भवति ।
सर्वप्राणिनाम् आत्मभूतं निर्गुणं सर्वप्रमाणागोचरं जगदास्पदभूतम्
अक्षरं परया एव विद्यया ज्ञायते नान्यथा ।