षड् दोषाः पुरुषेणेह...

विकिसूक्तिः तः

सुभाषितम्

षड् दोषाः पुरुषेणेह हातव्याः भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥
उद्योगपर्व ३३/७८




तात्पर्यम्

जीवने औन्नत्यं प्राप्तुं यः इच्छति तेन एते षड् दोषाः परित्यक्तव्याः – निद्रा, तन्द्रा (श्रान्तता), भीतिः, कोपः, आलस्यं, दिर्घसूत्रता (करणीयस्य
कार्यस्य अग्रे सारणम्) च । एते दुर्गुणाः यदि स्युः तर्हि तादृशः निरन्तरं प्रयासं
कर्तुं न अर्हति । परिश्रमेण विना फलप्राप्तिः नैव शक्यम् ।

"https://sa.wikiquote.org/w/index.php?title=षड्_दोषाः_पुरुषेणेह...&oldid=15145" इत्यस्माद् प्रतिप्राप्तम्