स एव सर्वं यद्भूतं...

विकिसूक्तिः तः

स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ - कैवल्योपनिषत् १-९

भूतं, भवत्, भविष्यत्- इत्येतत् सर्वमपि आत्मैव । तादृशं परमात्मानं ज्ञात्वा मृत्युमत्येति ।
मोक्षस्य अन्यः पन्था नास्ति ॥

मोक्षो नाम मरणात् मुक्तिः । आत्मज्ञानस्य फलमेव मुक्तिः । ज्ञानं नाम ब्रह्मज्ञानमेव । ब्रह्मैवाहमस्मि
इति ज्ञानमेव ब्रह्मज्ञानम् । ‘ब्रह्मज्ञानिनः मरणं नास्ति, ब्रह्मज्ञानी न म्रियते, ब्रह्मज्ञानिनः मरणभयं
नास्ति’ इति श्रुतयः पुनः पुनः उद्घोषयन्ति । अस्य रहस्यस्य आशयम् अयं मन्त्रः उपदिशति ॥

ब्रह्म नाम न हि कश्चित् देवः । देवाः देशकालपरिच्छिन्नाः । देवताः नामरूपैः संसारबन्धनैः परिच्छिन्नाः ।
ब्रह्म तु न देशकालनामरूपैः परिच्छिद्यते । तदा अद्य श्वः इति कालत्रयम्, तत्र अत्र इति देशं च अतीत्य
परिशुद्धतया परं ब्रह्म अस्माकं स्वरूपतयैव अवतिष्ठते । एवंविजानतो धीरस्य कस्मात् कुत्र कथं वा
भयप्राप्तिर्भवेत् । मोक्षस्य राजमार्गोऽयम् ॥

"https://sa.wikiquote.org/w/index.php?title=स_एव_सर्वं_यद्भूतं...&oldid=16350" इत्यस्माद् प्रतिप्राप्तम्