स एवं विद्वान् अस्मात्...

विकिसूक्तिः तः

स एवं विद्वान् अस्मात् शरीरभेदात् ऊर्ध्वः उत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान्
कामान् आप्त्वा अमृतः समभवत् समभवत् ॥ - ऎतरेयोपनिषत् २-१-६

स वामदेवमहर्षिः एवं ज्ञात्वा शरीराभिमानात् ऊर्ध्वम् उत्क्रम्य तत्र स्वर्गलोके सर्वान् कामान् लब्ध्वा अमृतः समभवत् ।

वेदेषु उपनिषत्सु हि वामदेवमहर्षेः परामर्शः तत्र तत्र दृश्यते । सः मातृगर्भस्थः सन् एव सर्वात्मभावरूपम् आत्मज्ञानं लब्ध्वा कृतार्थः समभवत् ॥

आत्मज्ञानस्य फलं नाम अमृतत्वप्राप्तिः । आत्मज्ञानेन सर्वकामावाप्तिरूपं फलं भवति, आत्मकामः आप्तकामः अकामो भवति ।
आत्मज्ञानेन अमृतो भवति, मुक्तो भवति, आप्तसर्वकामश्च भवति । आत्मज्ञानेन सर्वात्मभावः प्राप्यते । ‘आत्मैव सर्वम्’ इति
निश्चिते ज्ञाने उदिते सति पुनः प्राप्यतया कामाः अवशिष्यन्ते किम् ? नैव । तस्मात् वामदेववत् इदानीमपि आत्मज्ञानात् अमृतत्वं
प्राप्य वयमपि कृतार्था भवेम । आत्मज्ञानेन ब्रह्मानन्दं लब्ध्वा सर्वेऽपि वयम् मुक्ता भवेम ॥