स य एषोऽन्तर्हृदय...

विकिसूक्तिः तः

स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः ।
अमृतो हिरण्मयः ॥ - तैत्तिरीयोपनिषत् १-६

हृदयस्य अन्तः यः प्रसिद्धः आकाशः अस्ति, तस्यान्तः मनोमयः पुरुषो विद्यते । अयं पुरुषो
अमृतः हिरण्मयश्च भवति ॥

प्रतिप्राणि हृदयमिति विद्यते एव । एतद् हृदयं तस्य प्राणिनः मुष्टिप्रमाणं विद्यते । तस्य अन्तः यः
आकाशः सः हृदयाकाशः, चित्ताकाशः इति कथ्यते । अयं हि अत्यन्तसूक्ष्मः चित्ताकाशः ।
अस्मिन् अन्तः आत्मा वर्तते । अस्य आत्मनः मनोमयः आत्मा इति नाम । एषः अत्यन्तं सूक्ष्मः ।
अत एव अयं प्रमाणागोचरश्च ॥

ईदृशम् आत्मानम् उपासीत । अयमात्मा अमृतः इति हिरण्मयः इति च साधकः उपासीत ।
अयमात्मा अमृतो नाम मरणरहितः ; हिरण्मयः इति हिरण्यवत् नित्यशुद्धचैतन्यस्वरूपः इत्यर्थः ।
स्वस्मिन्नेव विद्यमानम् आत्मानम् एकाग्रतया उपासीत । इमं मनोमयमात्मानमेव परब्रह्मत्वेन उपासते
चेत् तादृशः उपासकः मरणानन्तरं ब्रह्मलोकं गच्छति ॥

"https://sa.wikiquote.org/w/index.php?title=स_य_एषोऽन्तर्हृदय...&oldid=16416" इत्यस्माद् प्रतिप्राप्तम्