स होवाच एतद्वै तदक्षरं...

विकिसूक्तिः तः

स होवाच एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति । - बृहदारण्यकोपनिषत् ३-८-८

हे गार्गि, ब्राह्मणाः इदमेव ‘अक्षरम्’ प्राहुः इति होवाच भगवान् याज्ञवल्क्यः ।

जनकमहाराजेन आयोजितायां विद्वत्सभायां वाचक्नवी गार्गी याज्ञवल्क्यम् एवं पृष्टवती 'भो याज्ञवल्क्य,
कस्मिन्नु खलु इदम् अव्याकृताकाशम् ओतं च प्रोतं च ?' । तया एवं पृष्टः याज्ञवल्क्यः ‘अक्षरे’ इत्युक्त्वा
'हे गार्गि, ब्राह्मणाः इदम् ‘अक्षरं’ वदन्ति' इति उक्तवान् ॥

याज्ञवल्क्यो हि कर्मकाण्डज्ञानकाण्डरहस्यवित्, आत्मज्ञानी आत्मनिष्ठः महात्मा च आसीत् । सः एवं वदति ॥

अक्षरे इदम् अव्याकृताकाशम् ओतं प्रोतं च वर्तते । न क्षरतीति अक्षरम्, नाशरहितं तत्त्वम् । परं ब्रह्म उपनिषत्सु
‘अक्षर’ नाम्ना प्रतिपादितमस्ति । ‘एवं हि ब्राह्मणाः अभिवदन्ति’ इत्युक्तत्वात् याज्ञवल्क्यस्य विनयः, प्राचीनाचार्यपरम्परायां
गौरवम् , सौजन्यं च ज्ञायते । आचार्यपरम्परायां परस्य ब्रह्मणः अक्षरम् इति नाम प्रसिद्धमित्यर्थः ॥