संज्ञानम् आज्ञानं विज्ञानं...

विकिसूक्तिः तः

संज्ञानम् आज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिः धृतिः मतिः मनीषा जूतिः स्मृतिः
सङ्कल्पः क्रतुः असुः कामो वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ - ऐतरेयोपनिषत् ३-१-२

संज्ञानम् , आज्ञानम् , विज्ञानम्, प्रज्ञानम् , मेधा, दृष्टिः, धृतिः, मतिः, मनीषा, जूतिः स्मृतिः, संकल्पः,
रतुः, असुः, कामः, वशः – इत्येतानि सर्वाणि प्रज्ञानस्यैव नामधेयानि भवन्ति ॥

आत्मचैतन्यम् एकम् एव । तस्मिन् कश्चिदपि भेदो नास्ति । एका एव चित् अन्तःकरणोपाधिभेदेन
भिन्नविभिन्नचैतन्यरूपेण अवभासते । तद्यथा, शुद्धचैतन्यरूपेण संज्ञानम्, आज्ञाचैतन्यरूपेण आज्ञानम्,
विवेकविशेषचैतन्यरूपेण विज्ञानम्, प्रकृष्टप्रशान्तचैतन्यरूपेण प्रज्ञानम्, स्मरणसामर्थ्यचैतन्यरूपेण मेधा,
इन्द्रियद्वारा विषयग्रहणचैतन्यरूपेण दृष्टिः, अवसन्नानाम् इन्द्रियाणां धैर्येण उत्तम्भनचैतन्यरूपेण धृतिः,
स्वतन्त्रबुद्धिचैतन्यरूपेण मनीषा, रोगादिपीडाचैतन्यरूपेण जूतिः । एवमेव एकमेव चैतन्यं स्मृति सङ्कल्प-
क्रतु- प्राणन- काम वशादिरूपेण विराजते इति ज्ञेयम् ॥